आपोहिष्ठामयोभुवस्तानऊर्जेदधातन । महेरणायचक्षसे । योवश्शिवतमोरसस्तस्यभाजयतेहनः । उशतीरिवमातरः । तस्माअरङ्गगमामवोयस्यक्षयायजिन्वथ । आपोजनयथाचनः ॥ तरत्समन्दीधावतिधारासुतस्यान्धसः । तरत्समन्दीधावति । उस्रावेदवसूनांमर्तस्यदेव्यवसः । तरत्समन्दीधावति । ध्वस्रयोः पुरुषन्त्योरासहस्राणिदद्महे । तरत्समन्दीधावति ॥ आययोस्त्रिꣳशतन्तनासहस्राणिचदद्महे । तरत्समन्दीधावति ॥ यःपावमानीरध्येत्यृषिभिस्सभृतँरसम् । सर्वंसपूतमश्नातिस्वदितम्मातरिश्वना ॥ पावमानीर्योअध्येत्यृषिभिस्संभृतंꣳरसम् । तस्मैसरस्वतीदुहेक्षीरꣳसर्पिर्मधूदकम् ॥ पावमानीस्वस्त्ययनीस्सुदुघाहिघृतश्चुतः । ऋषिभिस्सं भृतोरसोब्राह्मणेष्वमृतँहितम् ॥ पावमानीर्दधन्तुनइमंल्लोकमथो अमुम् । कामान्समर्धयन्तुनोदेवीर्देवैस्समाहृताः ॥ येनदेवाः पवित्रेणात्मानं पुनते सदा । तेनसहस्रधारेणपावमानीःपुनन्तुनः ॥ पावमानीस्वस्त्ययनीस्ताभिर्गच्छतिनान्दनम् । पुण्यांश्चभक्षान्भक्षयत्यमृतत्वञ्चगच्छति ॥ एतोन्विन्द्रꣳस्तवामशुद्धꣳशुद्धेन साम्ना । शुद्धैरुक्थैर्वावृ ध्वाꣳसंशुद्धैराशीर्वान्ममत्तु ॥ इन्द्रशुद्धोन आगहिशुद्धश्शुद्धाभिरूतिभिः । शुद्धोरयिन्निधारयशुद्धोममद्धि सोम्य । इन्द्रशुद्धोहिनोरयिꣳशुद्धोरत्नानिदाशुषे । शुद्धोवृत्राणि जिघ्नसे शुद्धोवाजꣳसिषाससि ॥ सोमँराजानं वरुणमग्निमन्वारभामहे । आदित्यं विष्णुं सूर्यंब्रह्माणञ्चबृहस्पतिम् ॥ यतइन्द्र भयामहे ततो नो अभयङ्कृधि । मघवञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि ॥ ब्रह्मजज्ञानं प्रथमंपुरस्ताद्विसीमतस्सुरुचो वेन आवः । सबुध्न्या उपमा अस्य विष्ठास्सतश्चयोनिमसतश्चविवः ॥ पवित्रन्ते विततं ब्रह्मणस्पतेप्रभुर्गात्राणिपर्येषिविश्वतः । अतप्ततनूर्नतदामोअश्नुतेशृतासइद्वहन्तस्सन्तदाशत ॥